मानाद्वा यदि वा लोभात् क्रोधाद्वा यदि वा भयात् ।
यो न्यायमन्यथा ब्रूते स याति नरकं नरः ॥
- पञ्चतंत्र, काकोलूकीय
If a person (judge) gives bad judgment due to prejudice, greed or fear he will go to hell.
- Panchatantra, Kakolukiya, Justice
मानाद्वा यदि वा लोभात् क्रोधाद्वा यदि वा भयात् ।
यो न्यायमन्यथा ब्रूते स याति नरकं नरः ॥
- पञ्चतंत्र, काकोलूकीय
- Panchatantra, Kakolukiya, Justice
मातृवत्परदारेषु परद्रव्येषु लोष्ठवत् ।
आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः ॥
- हितोपदेश, सन्धि
- Hitopadesha, Sandhi
माता शत्रुः पिता वैरी बालो येन न पाठितः ।
न शोभते सभा मध्ये हंसमध्ये बको यथा ॥
- हितोपदेश
- Hitopadesha
महतां योऽपराध्येते दूरस्थोऽस्मीति नाश्वसेत् ।
दीर्घौ बुद्धिमतो बाहू ताभ्यां हिंसति हिंसकम् ॥
- पञ्चतंत्र, मित्रभेद
- Panchatantra, Mitrabheda
भारोऽविवेकिनः शास्त्रं भारो ज्ञानं च रागिणः ।
अशान्तस्य मनो भारः भारोऽनात्मविदो वपुः ॥
- योगवासिष्ठ, वैराग्य
- Yogavasishta, Vairagya
भाग्योदयेन बहुजन्मसमार्जितेन
सत्संगमं च लभते पुरुषो यदा वै ।
अज्ञानहेतुकृतमोहमदांधकार
नाशं विधाय हि तदोदयते विवेकः ॥
- भागवतमाहात्म
- Bhagavatamahatma
भये वा यदि वा हर्षे संप्राप्ते यो विमर्शयेत् ।
कृत्यं न कुरुते वेगान्न स संतापमाप्नुयात् ॥
- सुभाषितरत्नभाण्डागार
- Subhashitaratnabhandagara
बुद्धिवृद्धिकरण्याशु धनानि च हितानि च ।
नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान् ॥
- मनुस्मृति
- Manu Smriti
बालस्यापि रवेः पादाः पतत्युपरि भूभृतां ।
तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥
- पञ्चतंत्र, मित्रभेद
- Panchatantra, Mitrabheda
बालादपि ग्रहीतव्यं युक्तमुक्तं मनीषिभिः ।
रवेरविषये किं न प्रदीपस्य प्रकाशनम् ॥
- हितोपदेश, सुहृद्भेद
- Hitopadesha, Suhrudbheda
बहवो न विरोद्धव्या दर्जया हि महाजनाः ।
स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ॥
- पञ्चतंत्र, काकोलूकीय
- Panchatantra, Kakolukiya
बलीयसा हीनबलो विरोधं
न भूतिकामो मनसापि वान्छेत् ।
न वध्यतेत्यन्तबलो हि यस्मा-
द्व्यक्तं प्रणशोस्ति पतंगवृत्तेः ॥
- पञ्चतंत्र, काकोलूकीय
- Panchatantra, Kakolukiya
बंधुस्त्रीभृत्यवर्गस्य बुद्धेः सत्वस्य चात्मनः ।
आपन्निकषपाषाणे नरो जानाति सारताम् ॥
- हितोपदेश, सुहृद्भेद
- Hitopadesha, Suhrudbheda
प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः ।
दाता नापात्रवर्षी स्यात्प्रगल्भः स्यादनिष्ठुरः ॥
- हितोपदेश, विग्रह
- Hitopadesha, Vigraha
प्राणाघातान्निवृत्तिः परधनहरणे संयमः सत्यवाक्यम्
काले शक्त्या प्रदेयं युवतिजनकथामूकभावः परेषाम् ।
तृष्णास्रोतोविबंधो गुरुषु च विनतिः सर्वभूतानुकंपा
सामान्यं सर्वशास्त्रेष्वनुपहतविधिः श्रेयसामेषमार्गः ॥
- यशस्तिलक
- Yashastilaka
पाण्डित्येन प्रचण्डेन येन माद्यन्ति दुर्जनाः ।
तेनैव सज्जना रूढां यान्ति शान्तिमनुत्तमाम् ॥
- रसगंगाधर
- Rasagangadhara
प्राज्ञोऽपि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः ।
गुणवद्ववाक्यमादत्ते हंसः क्षीरमिवांभसः ॥
- सुभाषितसुधानिधि
- Subhashitasudhannidhi
प्रस्तावसदृशं वाक्यं सद्भावसदृशं प्रियम् ।
आत्मशक्तिसमं कोपं यो जानाति स पण्डितः ॥
- हितोपदेश, सुहृद्भेद
- Hitopadesha, Suhrudbheda
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः ।
एतद्विज्ञानसामर्थ्यं न बालैः समतामियात् ॥
- महाभारत, स्त्री पर्व
- Mahabharata, Stree Parva
प्रज्ञाविवेकं लभते विभिन्नागमदर्शनैः ।
कियद्वा शक्यमुन्नेतुं स्वयत्नमनुधावता ॥
- वाक्यपदीय
- Vakyapadiya
प्रज्ञागुप्तशरीरस्य किं करिष्यन्ति संगताः ।
गृहीतच्छत्रहस्तस्य वारिधारा इवारयः ॥
- सुभाषितसुधानिधि
- Subhashitasudhanidhi
नित्यं कोपात्तपो रक्षेच्छ्रियं रक्षेच्च मत्सरात् ।
विद्यां मानावमानाभ्यामात्मानां च प्रमादतः ॥
- सुभाषितसुधानिधि
- Subhashitasudhanidhi
नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः ।
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ॥
- महाभारत, शान्ति
- Mahabharata, Shanti
नाप्राप्यमभिवांछन्ति नष्टं नेच्छन्ति शोचितुम् ।
आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः ॥
- महाभारत, उद्योग
- Mahabharata, Udyoga
न स्वल्पस्य कृते भूरि नाशयेन्मतिमान् नरः ।
एतदेवात्रपाण्दित्यं यत्स्वल्पाद्भूरिरक्षणम् ॥
- पञ्चतंत्र, मित्रभेद
- Panchatantra, Mitrabheda
नष्टं मृतमतिक्रांतं नानुशोचन्ति पण्डिताः ।
पण्डितानां च मूर्खाणां विशेषोऽयं यतः स्मृतः ॥
- पञ्चतंत्र, मित्रभेद
- Panchatantra, Mitrabheda
न यत्रास्ति गतिर्वायो रश्मीनां च विवस्वतः।
तत्रापि प्रविशत्याशु बुद्धिर्बुद्धिमतां सदा ॥
- पञ्चतंत्र, अपरीक्षतकारक
- Panchatantra, Aparikshitakaraka
न देवा दण्डमादाय रक्षन्ति पशुपालवत् ।
यं हि रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति ॥
न तेन वृद्धो भवति येनास्य पलितं शिरः ।
यो वै युवाप्यधीयानस्तं देवाः स्थविरं विदुः ॥
- मनुस्मृति
- Manu Smriti
न तच्छस्त्रैः न नागेंद्रैर्न हयैः न पदातिभिः ।
कार्यं संसिद्धिमभ्येति यथा बुद्ध्या प्रसाधितम् ॥
- पञ्चतंत्र, मित्रभेद
- Panchatantra, Mitrabheda
धर्माथौ यत्र न स्यातां शुश्रूषावाऽपि तद्विधा ।
तत्र विद्या न वक्तव्या शुभं बीजमिवोषरे ॥
- मनुस्मृति
- Manu Smriti