मानाद्वा यदि वा लोभात् क्रोधाद्वा यदि वा भयात् ।
यो न्यायमन्यथा ब्रूते स याति नरकं नरः ॥
- पञ्चतंत्र, काकोलूकीय
If a person (judge) gives bad judgment due to prejudice, greed or fear he will go to hell.
- Panchatantra, Kakolukiya, Justice
मानाद्वा यदि वा लोभात् क्रोधाद्वा यदि वा भयात् ।
यो न्यायमन्यथा ब्रूते स याति नरकं नरः ॥
- पञ्चतंत्र, काकोलूकीय
- Panchatantra, Kakolukiya, Justice
मातृवत्परदारेषु परद्रव्येषु लोष्ठवत् ।
आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः ॥
- हितोपदेश, सन्धि
- Hitopadesha, Sandhi
माता शत्रुः पिता वैरी बालो येन न पाठितः ।
न शोभते सभा मध्ये हंसमध्ये बको यथा ॥
- हितोपदेश
- Hitopadesha
महतां योऽपराध्येते दूरस्थोऽस्मीति नाश्वसेत् ।
दीर्घौ बुद्धिमतो बाहू ताभ्यां हिंसति हिंसकम् ॥
- पञ्चतंत्र, मित्रभेद
- Panchatantra, Mitrabheda
भारोऽविवेकिनः शास्त्रं भारो ज्ञानं च रागिणः ।
अशान्तस्य मनो भारः भारोऽनात्मविदो वपुः ॥
- योगवासिष्ठ, वैराग्य
- Yogavasishta, Vairagya
भाग्योदयेन बहुजन्मसमार्जितेन
सत्संगमं च लभते पुरुषो यदा वै ।
अज्ञानहेतुकृतमोहमदांधकार
नाशं विधाय हि तदोदयते विवेकः ॥
- भागवतमाहात्म
- Bhagavatamahatma
भये वा यदि वा हर्षे संप्राप्ते यो विमर्शयेत् ।
कृत्यं न कुरुते वेगान्न स संतापमाप्नुयात् ॥
- सुभाषितरत्नभाण्डागार
- Subhashitaratnabhandagara
बुद्धिवृद्धिकरण्याशु धनानि च हितानि च ।
नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान् ॥
- मनुस्मृति
- Manu Smriti
बालस्यापि रवेः पादाः पतत्युपरि भूभृतां ।
तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥
- पञ्चतंत्र, मित्रभेद
- Panchatantra, Mitrabheda
बालादपि ग्रहीतव्यं युक्तमुक्तं मनीषिभिः ।
रवेरविषये किं न प्रदीपस्य प्रकाशनम् ॥
- हितोपदेश, सुहृद्भेद
- Hitopadesha, Suhrudbheda
बहवो न विरोद्धव्या दर्जया हि महाजनाः ।
स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ॥
- पञ्चतंत्र, काकोलूकीय
- Panchatantra, Kakolukiya
बलीयसा हीनबलो विरोधं
न भूतिकामो मनसापि वान्छेत् ।
न वध्यतेत्यन्तबलो हि यस्मा-
द्व्यक्तं प्रणशोस्ति पतंगवृत्तेः ॥
- पञ्चतंत्र, काकोलूकीय
- Panchatantra, Kakolukiya
बंधुस्त्रीभृत्यवर्गस्य बुद्धेः सत्वस्य चात्मनः ।
आपन्निकषपाषाणे नरो जानाति सारताम् ॥
- हितोपदेश, सुहृद्भेद
- Hitopadesha, Suhrudbheda
प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः ।
दाता नापात्रवर्षी स्यात्प्रगल्भः स्यादनिष्ठुरः ॥
- हितोपदेश, विग्रह
- Hitopadesha, Vigraha
प्राणाघातान्निवृत्तिः परधनहरणे संयमः सत्यवाक्यम्
काले शक्त्या प्रदेयं युवतिजनकथामूकभावः परेषाम् ।
तृष्णास्रोतोविबंधो गुरुषु च विनतिः सर्वभूतानुकंपा
सामान्यं सर्वशास्त्रेष्वनुपहतविधिः श्रेयसामेषमार्गः ॥
- यशस्तिलक
- Yashastilaka
पाण्डित्येन प्रचण्डेन येन माद्यन्ति दुर्जनाः ।
तेनैव सज्जना रूढां यान्ति शान्तिमनुत्तमाम् ॥
- रसगंगाधर
- Rasagangadhara
प्राज्ञोऽपि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः ।
गुणवद्ववाक्यमादत्ते हंसः क्षीरमिवांभसः ॥
- सुभाषितसुधानिधि
- Subhashitasudhannidhi
प्रस्तावसदृशं वाक्यं सद्भावसदृशं प्रियम् ।
आत्मशक्तिसमं कोपं यो जानाति स पण्डितः ॥
- हितोपदेश, सुहृद्भेद
- Hitopadesha, Suhrudbheda
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः ।
एतद्विज्ञानसामर्थ्यं न बालैः समतामियात् ॥
- महाभारत, स्त्री पर्व
- Mahabharata, Stree Parva
प्रज्ञाविवेकं लभते विभिन्नागमदर्शनैः ।
कियद्वा शक्यमुन्नेतुं स्वयत्नमनुधावता ॥
- वाक्यपदीय
- Vakyapadiya
प्रज्ञागुप्तशरीरस्य किं करिष्यन्ति संगताः ।
गृहीतच्छत्रहस्तस्य वारिधारा इवारयः ॥
- सुभाषितसुधानिधि
- Subhashitasudhanidhi
नित्यं कोपात्तपो रक्षेच्छ्रियं रक्षेच्च मत्सरात् ।
विद्यां मानावमानाभ्यामात्मानां च प्रमादतः ॥
- सुभाषितसुधानिधि
- Subhashitasudhanidhi
नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः ।
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ॥
- महाभारत, शान्ति
- Mahabharata, Shanti
नाप्राप्यमभिवांछन्ति नष्टं नेच्छन्ति शोचितुम् ।
आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः ॥
- महाभारत, उद्योग
- Mahabharata, Udyoga
न स्वल्पस्य कृते भूरि नाशयेन्मतिमान् नरः ।
एतदेवात्रपाण्दित्यं यत्स्वल्पाद्भूरिरक्षणम् ॥
- पञ्चतंत्र, मित्रभेद
- Panchatantra, Mitrabheda
नष्टं मृतमतिक्रांतं नानुशोचन्ति पण्डिताः ।
पण्डितानां च मूर्खाणां विशेषोऽयं यतः स्मृतः ॥
- पञ्चतंत्र, मित्रभेद
- Panchatantra, Mitrabheda
न यत्रास्ति गतिर्वायो रश्मीनां च विवस्वतः।
तत्रापि प्रविशत्याशु बुद्धिर्बुद्धिमतां सदा ॥
- पञ्चतंत्र, अपरीक्षतकारक
- Panchatantra, Aparikshitakaraka
न देवा दण्डमादाय रक्षन्ति पशुपालवत् ।
यं हि रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति ॥
न तेन वृद्धो भवति येनास्य पलितं शिरः ।
यो वै युवाप्यधीयानस्तं देवाः स्थविरं विदुः ॥
- मनुस्मृति
- Manu Smriti
न तच्छस्त्रैः न नागेंद्रैर्न हयैः न पदातिभिः ।
कार्यं संसिद्धिमभ्येति यथा बुद्ध्या प्रसाधितम् ॥
- पञ्चतंत्र, मित्रभेद
- Panchatantra, Mitrabheda
धर्माथौ यत्र न स्यातां शुश्रूषावाऽपि तद्विधा ।
तत्र विद्या न वक्तव्या शुभं बीजमिवोषरे ॥
- मनुस्मृति
- Manu Smriti
धर्मार्थकाममोक्षाणां प्राणाः संस्थितिहेतवः ।
तन्निघ्नता किं न हतं रक्षता किं न रक्षितम् ॥
- हितोपदेश,मित्रलाभ
- Hitopadesha, Mitralabha
दुर्लभं त्रयमेवैतद्दैवानुग्रहहेतुकं ।
मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः ॥
- विवेकचूडामणी
- Vivekachudamani
दाने तपसि शौर्ये वा यस्य न प्रथितं यशः ।
विद्यायामर्थलाभे वा मातुरुच्चार एव सः ॥
- नैषधव्याख्या
- Naishadhavyakhya
दाने तपसि शौर्ये वा यस्य न प्रथितं यशः ।
विद्यायामर्थलाभे वा मातुरुच्चार एव सः ॥
- नैषधव्याख्या
- Naishadhavyakhya
तमःपरिवृतं वेश्म यथा दीपेन दीप्यते ।
तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम् ॥
- सुभाषितसुधानिधि
- Subhashitasudhanidhi
तत्तदुत्प्रेक्षमाणानां पुराणैरागमैर्विना ।
अनुपासितवृद्धानां विद्या नातिप्रसीदति ॥
- वाक्यपदीय
- Vakyapadiya
तत्कर्म यन्न बंधाय सा विद्या या विमुक्तये ।
आयासायापरं कर्म विद्यान्न शिल्पनैपुणम् ॥
- विष्णुपुराण
- Vishnupurana
ज्ञानमेव परंब्रह्म ज्ञानं बंधाय कल्पते ।
ज्ञानात्मकमिदं विश्वं न ज्ञानाद्विद्यते परम् ॥
- विष्णुपुराण
- Vishnupurana
जडसंगेऽपिन लिप्ताः श्रीसद्भावेऽपि नोत्तरलाः ।
अंभोजकोरका इव विज्ञा विकसन्ति विश्वस्मै ॥
- अन्योक्तिस्तबक
- Anyoktistabaka
चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये ।
वस्तुसिद्धिविचारेण न किंचित् कर्मकोटिभिः ॥
- विवेकचूडामणि
- Viveka Chudamani
घर्मार्तं न तथा सुशीतलजलैः स्नानं मुक्तावली
न श्रीखण्डविलेपनं सुखयति प्रत्यंगमप्यर्पितम् ।
प्रीत्यै सज्जनभाषितं प्रभवति प्रायो यथा देहिनां
सद्युक्त्या च पुरस्कृष्टिमंत्रोपमम् ॥
- हितोपदेश, मित्रलाभ
- Hitopadesha, Mitralabha
गुणानामन्तरं प्रायस्तज्ञो वेत्ति न चापरः ।
मालतीमल्लिकामोदं घ्राणं वेत्ति न लोचनम् ॥
- सुभाषितरत्नसमुच्चय
- Subhashita Ratnasamucchaya
कोऽतिभारः समर्थानां किं दूरं व्यवसायिनम् ।
को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥
- हितोपदेश - सुहृद्भेद
- Hitopadesha, Suhrudbheda
कुरु गुरुवचो निपीतं
भूयो भूयो विचिन्तयाधीतं ।
विद्या गुरूपदिष्टा चिर
परिवृष्टा विभूषणं वपुषः ॥
- हरिहर सुभाषित
- Harihara Subhashita
कष्टं कर्मेति दुर्मेधाः कर्तव्याद्विनिवर्तते ।
न साहसमनारभ्य श्रेयः समुपलभ्यते ॥
- हरिहर सुभाषित
- Harihara Subhashita
कच्चित् सहस्रान्मूर्खाणामेकमिच्छसि पण्डीतम् ।
पण्डीतो ह्यर्थकृच्छेषु कुर्यान्निःश्रेयसं महत् ॥
- रामायण, अयोध्य
- Ramayana, Ayodhya
एकं हन्यान्न वा हन्यात् इषुर्मुक्तो धनुष्मता ।
बुद्धिर्बुद्धिमतः सृष्टा हन्ति राष्ट्रं सनायकम् ॥
- पञ्चतंत्र, मित्रभेद
- Panchatantra, Mitrabheda
एकः स्वादु न भुंजीत नैकः कार्यं विचिन्तयेत् ।
एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥
- सुभाषितसुधानिधि
- Subhashitasudhanidhi
एकं विषरसो हन्ति शस्त्रेणैकश्च बाध्यते ।
सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविस्रवः ॥
- सुभाषितसुधानिधि
- Subhashitasudhanidhi
एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् ।
पृथिव्यां नास्ति तद्द्रव्यं यद्दत्वा ह्यनृणीभवेत् ॥
- अत्रिसंहिता
- Atri Samhita
उपदिशति लोकवृत्तं वितरति वित्तं विनोदयति चित्तं ।
उत्तंभयति महत्वं विद्या हृद्या सुराजसेवेव ॥
- हरिहर सुभाषित
- Harihara Subhashita
उदीरितोऽर्थः पशूनापि गृह्यते
हयश्च नागाश्च वहन्ति देशिताः ।
अनुक्तमप्यूहति पण्डीतो जनः
परेंगितज्ञानफला हि बुद्धयः ॥
- हितोपदेश, सुहृद्भेद
- Hitopadesha, Suhrudbheda
उद्यन्तु शतमादित्या उद्यन्तु शतमिन्दवः ।
न विना विदुषां वाक्यैर्नश्यत्याभ्यंतरं तमः ॥
- सभारंजन शतक
- Sabharanjana Shataka
उच्चैरुच्चरितव्यं यत्किंचिदजानतापि पुरुषेण ।
मूर्खा बहु मन्यन्ते विदुषामपि संशयो भवति ॥
- सुभाषितसुधानिधि
- Subhashitasudhanidhi
उक्तो भवति यः पूर्वं गुणवानिति संसदि ।
तस्य दोषो न वक्तव्यः प्रतिज्ञाभंगभीरुणा ॥
- पञ्चतंत्र, मित्रभेद
- Panchatantra, Mitrabheda
इतः कोन्वस्ति मूढात्मा यस्तु स्वार्थे प्रमाद्यति ।
दुर्लभं मानुषं देहं प्राप्य तत्रापि पौरुषम् ॥
- विवेकचूडामणि
- Viveka Chudamani
आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया ।
कालेन पादमादत्ते पादं सब्रह्मचारिभिः ॥
- महाभारत, उद्योग
-Mahabharata, Udyoga
आचार्यपुत्रः शुश्रूषुः ज्ञानदो धार्मिकः शुचिः ।
आप्तः शक्तोऽर्थदः साधुः स्वोऽध्याप्या दश धर्मितः ॥
- मनुस्मृति
- Manu Smriti
असंसक्तः शरीरेऽस्मिन्नमुनोत्पादितो गृहे ।
अपत्ये द्रविणे वापि कः कुर्यान्ममतां बुधः ॥
- भागवत
- Bhagavata
अलं दानेन विप्रेन्द यजनाध्ययनेन वा ।
इदं तत्स्वर्गसोपानममलं यत्प्रियं वचः ॥
- सुभाषितसुधानिधि
- Subhashitasudhanidhi
अप्रियस्यापि पथ्यस्य परिणामः सुखावहः ।
वक्ता श्रोता च यत्रास्ति रमन्ते तत्र संपदः ॥
- हितोपदेश, सुहृद्भेद
- Hitopadesha, Suhrudbheda
अपि मानुष्यकं लब्ध्वा भवन्ति ज्ञानिनो नये ।
पशुतैव वरा तेषां प्रत्यवायाप्रवर्तनात् ॥
- सभारंजनशतक
- Sabharanjanashataka
अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् ।
लभते बह्ववज्ञानमपमानं च पुष्कलम् ॥
- पञ्चतंत्र, मित्रबेध
- Panchatantra, Mitrabedha
अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् ।
सर्वस्य लोचनं शास्त्रं यस्य नास्त्यंध एव सः ॥
- हितोपदेश
- Hitopadesha
अनुभवेन विनाधिगतं श्रुतं
भवति नैव नॄणामुपकारकं ।
दधिनि वतर्त एव हविः पुनः
न मथनेन विना विना तदवाप्यते ॥
- यज्ञफल
- Yajnaphala
अनारंभो हि कार्याणां प्रथमं बुद्धिलक्षणम् ।
प्रारब्धस्यांतगमनं द्वितीयं बुद्धिलक्षणम् ॥
- पञ्चतंत्र, काकोलूकीय
- Panchatantra, Kakolukiya
अनंतपारं किल शब्दशास्त्रं
स्वल्पं तथायुर्बहवश्च विघ्नाः ।
सारं ततो ग्राह्यमपास्य फल्गु
हंसैर्यथा क्षीरमिवांबुमध्यात् ॥
- पञ्चतंत्र, कथामुख
- Panchatantra, Kathamukha
अधीत्य चतुरो वेदान् व्याकृत्याष्टादश स्मृतीः ।
अहो श्रमस्य वैफल्यं आत्मापि कलितो न चीत् ॥
अदेशकालज्ञमनायतिक्षमं
यदप्रियं लाघवकारि चात्मनः ।
योऽत्राब्रवीत्कारणवर्जितं वचो
न तद्वचः स्याद्विषमेव तद्वचः ॥
- पञ्चतंत्र, काकोलूकीय
- Panchatantra, Kakolukiya
अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः ।
न स्नानेन न दानेन प्राणायामशतेन वा ॥
- विवेकचूडामणि
- Viveka Chudamani
अंतस्सारैरकुटिलैरच्छिदैः सुपरीक्षितैः ।
मंत्रिभिर्धार्यते राज्यं सुस्तंभैरिव मंदिरम् ॥
- पञ्चतंत्र, मित्रभेद
- Panchatantra, Mitrabhedha
अक्षराणि परीक्ष्यंतामंबराडंबरेण किं ।
शंभुरंबरहीनोपि सर्वज्ञः किं न कथ्यते ॥
- अप्पय्य दीक्षित
- Appayya Dikshita
स्त्रीषु नर्मविवाहे च वृत्त्यर्थे प्राणसंकटे ।
गोब्राह्मणार्थे हिंसयां नानृतं स्याज्जुगुप्सितम् ॥
- भागवत
- Bhagavata
स्वसुखनिरभिलाषः खिद्यसे कस्य हेतोः
प्रतिदिनमथवा ते वृत्तिरेवं विधैव ।
अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं
शमयति परितापं छायया संश्रितानाम् ॥
- अभिज्ञान शाकुन्तल
- Abhijnana Shakuntala
सर्वे कंकणकेयूरकुण्डलप्रतिमा गुणाः ।
शीलं चाकृत्रिमं लोके लावण्यमिव भूषणम् ॥
- सुभाषितसुधानिधि
- Subhashitasudhanidhi
सर्वाशुचि निधानस्य कृतघ्नस्य विनाशिनः ।
शरीरकस्यापि कृते मूढाः पापानि कुर्वते ॥
- नागानन्द
- Nagananda
सर्वहिंसानिवृत्ता ये नराः सर्वं सहाश्च ये ।
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः ॥
- सुभाषितरत्नभाण्डागार
- Subhashitaratnabhandagara
सर्वंसहा ये ऋजवः प्रतिज्ञातार्थपालकाः ।
परोपकारिणः सेव्याः निर्धना अपि ते जनाः ॥
- सुभाषितरत्नभाण्डागार
- Subhashiaratnabhandagara
सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः ।
श्रद्धधानोऽनसूयश्च शतं वर्षाणि जीवति ॥
- मनुस्मृति
- Manu Smriti
संरक्षणार्थं जन्तूनां रात्रावहनि वा सदा ।
शरीरस्यात्यये चैवे समीक्ष्य वसुधां चरेत् ॥
- मनुस्मृति
- Manu Smriti
संप्राप्ताय त्वतिथये प्रदद्यादासनोदके ।
अन्नं चैव यथाशक्ति सत्कृत्य विधिपूर्वकम् ॥
- मनुस्मृति
- Manu Smriti
समुत्पत्तिं च मांसस्य वधबंधौ च देहिनां ।
प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥
- मनुस्मृति
- Manu Smriti
संपदो जलतरंगविलोल
यौवनं त्रिचतुराणि दिनानि ।
शारदाभ्रपरिपेलवमायुः
किं धनैः परहितानि कुरुध्वम् ॥
- सुभाषितसुधानिधि
- Subhashitasudhanidhi
सदा प्रहृष्टया भाव्यं गृहकार्येषु दक्षया ।
सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ॥
- मनुस्मृति
- Manu Smriti
सत्त्वे पुलीनाः स्वर्यान्ति नरलोकं तु राजसाः ।
तमोलयास्तु निरयं यान्ति मामेव निर्गुणाः ॥
- भागवत
- Bhagavata
सतीमपि ज्ञातिकुलैकसंश्रयां
जनोऽन्यथा भर्तृमतीं विशंकते ।
अतः समीपे परिणेतुरिष्यते
प्रियाप्रिया वा प्रमदा स्वबंदुभिः ॥
- अभिज्ञान शाकुन्तल
- Abhijnana Shakuntala
सत्यमस्तेयमक्रोधो ह्रीः शौचं धीर्धृतिर्दमः ।
संयतेंद्रियता विद्या धर्मः सर्व उदाहृतः ॥
- याज्ञवल्क्य
- Yajnavalkya
सत्यं ब्रूयात् प्रियं ब्रूयात्
न ब्रूयात् सत्यमप्रियम् ।
प्रियं च नानृतं ब्रूयात्
एष धर्मः सनातनः ॥
- मनुस्मृति
- Manu Smriti
सत्यस्य वचनं श्रेयः सत्यादपि हितं वदेत् ।
यद्भूतहितमत्यन्तं एतत्सत्यं मतं मम ॥
- महाभारत, शान्ति
- Mahabharata, Shanti
संक्षेपात्कथ्यते धर्मो जनाः किं विस्तरेण वः ।
परोपकारः पुण्याय पापाय परपीडनम् ॥
- पञ्चतंत्र, काकोलूकीय
- Panchatantra, Kakolukiya
श्रूयतां धर्मसर्वं श्रुत्वा चैवावधार्यताम् ।
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥
- पञ्चतंत्र, काकोलूकीय
- Panchatantra, Kakolukiya
शुश्रूषस्य गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपंगमः ।
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी
यांत्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥
- अभिज्ञान शाकुन्तल
- Abhijnana Shakuntala
शिक्षाक्षयं गच्छति कालपर्यायात्
सुबद्धमूला निपतन्ति पादपाः ।
जलं जलस्थानगतं च शुष्यति
हुतं च दत्तं च तथैव शिष्यति ॥
- कर्णभार
- Karnabhara
शरतल्पमधिशयनाद् भीष्मादाकर्ण्य धर्मजो धर्मान् ।
दुःखं जहौ दुरन्तं प्रष्टव्याः सत्पथं वृद्धाः ॥
- उपदेशशतक
- Upadeshashataka
श्रद्धया धार्यते धर्मो बहुभिर्नार्थराशिभिः ।
निष्किंचना हि मुनयः श्रद्धावन्तो दिवंगताः ॥
- गरुड पुराण
- Garuda Purana
शतेषु जायते शूरः सहस्रेषु च पण्डितः ।
वक्ता दशसहस्रेषु दाता भवति वा न वा ॥
- मनुस्मृति
- Manu Smriti
वेदाभ्यासस्तपो ज्ञानं शौचमिन्द्रियनिग्रहः |
धर्मक्रियात्मचिन्ता च सात्त्विकं गुणलक्षणं ॥
- मनुस्मृति - सात्त्विक
- Manu Smriti, Virtue
वृक्षांश्छित्वा पशून्हत्वा कृत्वा रुधिरकर्दमं ।
यद्येवं गम्यते स्वर्गे नरकः केन गम्यते ॥
- पञ्चतंत्र, काकोलुकीय
- Panchatantra, Kakolukiya
विनयो रत्नमुकुटं सच्छास्त्रं मणिकुण्डले ।
त्यागश्च कङ्कणं येषां कि तेषां जडमण्डनैः ॥
- भारतमंजरी
- Bharatamanjari
विदेशेषु धनं विद्या व्यसनेषु धनं मतिः ।
परलोके धनं धर्मः शीलं तु निखिलं धनम् ॥
- भारतमंजरी
- Bharatamanjari
विद्या प्रवसतो मित्रं भार्या मित्रं गृहे सतः ।
आतुरस्य भिषक् मित्रं दानं मित्रं मरिष्यतः ॥
- सुभाषितसुधानिधि
- Subhashitasudhanidhi
विद्वद्भिः सेवितः सद्भिः नित्यमद्वेषरागिभिः ।
हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निभोधत ॥
- मनुस्मृति
- Manu Smriti
वयो बुद्ध्यर्थवाग्वेष श्रुताभिजनकर्मणां ।
आचरेत्सदृशीं वृत्तिं अजिह्मामशठां तथा ॥
- याज्ञवल्क्य
- Yajnavalkya
वरं कार्यं मौनं न च वचनमुक्तं यदनृतं
वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् ।
वरं प्राणत्यागो न च पिशुनवादेष्वभिरतिः
वरं भिक्षाशित्वं न च परधनास्वादनबलम् ॥
- हितोपदेश, मित्रलाभ
- Hitopadesha, Mitralabha
योऽहिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया ।
स जीवंश्च मृतश्चैव न क्वचित्सुखमेधते ॥
- मनुस्मृति
- Manu Smriti
यो बन्धनवधक्लेशान् प्राणिनां न चकीर्षति ।
न सर्वस्य हितप्रेप्सुः सुखमत्यन्तमश्नुते ॥
- मनुस्मृति
- Manu Smriti
युक्तः प्रमाद्यसि हितादपेतः परितप्यसे ।
यदि नेष्टात्मनः पीडा मा संजी भवता जने ॥
- किरातार्जुनीय
- Kiratarjuniya
यात्येकतोऽस्तशिखरं पतिरोषधीनां
आविष्कृतोऽरुणपुरःसर एकतोऽर्कः ।
तेजोद्वयस्य युगपद्व्यसनोदयाभ्यां
लोको नियम्यत इवात्मदशान्तरेषु ॥
- अभिज्ञान शाकुन्तला
- Abhijnana Shakuntala
यस्मिन् देशे य आचारो व्यवहारः कुलस्थितिः ।
तथैव परिपाल्योऽसौ यदा वशमुपागतः ॥
- याज्ञवल्क्य
- Yajnavalkya
यस्य धर्मविहीनानि दिनान्यायान्ति यान्ति च ।
स लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥
- पञ्चतंत्र, काकोलुकीय
- Panchatantra, Kakolukiya
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥
- भगवद्गीता
- Bhagavadgita
यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः ।
पुत्रवत्ते त्रयश्चिंत्या धर्मश्चेदत्र कारणम् ॥
- रामायण, किष्किंधा
- Ramayana, Kishkindha
यः प्राप्य दुष्प्रापमिदं नरत्वं
धर्मं न यत्नेन करोति मूढः ।
क्लेशप्रबंधेन स लुब्धमब्धौ
चिन्तामणिं पातयति प्रमादात् ॥
- सोमप्रभाचार्यस्य सूक्तिमुक्तावलि
- Somaprabhacharya's Suktimuktavali
यद्भूतहितमत्यन्तं तत्सत्यमिति धारणा ।
विपर्ययकृतोधर्मः पश्य धर्मस्य सूक्ष्मताम् ॥
- महाभारत, वन
- Mahabharta , Vana
यदसत्यं वदेन्मॄत्यः यद्वाऽसेव्यं च सेवते ।
यद्गच्छति विदेशं च तत्सर्वमुदरार्थतः ॥
- पञ्चतंत्र - मित्रभेद - उदरार्थं सर्वं
- Panchatantra, Mitrabheda
यथा यमः प्रियद्वेषौ प्राप्ते काले नियच्छति ।
तथा राज्ञा नियंतव्याः प्रजास्तद्धि यमव्रतम् ॥
- मनु स्मृति
- Manu Smriti
यथा जानन्ति बहवो यथा वक्ष्यन्ति दातरी ।
तथा धर्मं चरेत् सर्वं वृथा धर्ममाचरेत् ॥
- कलिविडंबना
- Kali Vidambana
यत् स्यादहिंसासंयुक्तं स धर्म इति निश्चयः ।
अहिंसार्थाय भूतानां धर्मप्रवचनं कृतम् ॥
- महाभारत, कर्णपर्व
- Mahabharata, Karna Parva
यत् कॄत्वा न भवेद्धर्मो न कीर्तिर्न यशो भुवि ।
शरीरस्य भवेत् खेदः कस्तत् कर्म समाचरेत् ॥
- रामायण, अरण्य
- Ramayana, Aranya
यत्कर्म कुर्वतोऽस्य स्यात् परितोषोंतरात्मनः ।
तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ॥
- मनुस्मृति
- Manu Smriti
यच्छन् जलमपि जलदो वल्लभतामेति सकललोकस्य ।
नित्यं प्रसारितकरो मित्रोऽपि न वीक्षितुं शक्यः ॥
- पञ्चतंत्र, मित्रसंप्राप्ति
- Panchatantra, Mitrasamprapti
य उद्धरेत्करं राजा राजा प्रजा धर्मेष्वशिक्षयन् ।
प्रजानां शमलं भुंक्ते भगं च स्वं जहाति सः ॥
- भागवत
- Bhagavata
मृषावादं परिहरेत् कुर्यात् प्रियमयाचितः ।
न च कामान्न संरंभान्न द्वेषाद्धर्ममुत्सृजेत् ॥
- महाभारत, वन
- Mahabharata, Vana
मृतोऽप्यर्थं न मोक्ष्यामि बद्ध्वा नेष्यामि मूर्धनि ।
इति चेत् सुदृढो लोभः पात्रे देयमशंकितम् ॥
- सभारंजनशतक
- Sabharanjanashataka
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ ।
विमुखा बांधवा यान्ति धर्मस्तमनुगच्छति ॥
- मनुस्मृति
- Manu Smriti
मां स भक्षयिताऽमुत्र यस्य मांसमिहाद्म्यहम् ।
एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥
- मनुस्मृति
- Manu Smriti
महता पुण्ययोगेन मानुषं जन्म लभ्यते ।
तत्प्राप्य न कृतो धर्मः कीदृशं हि मयाकृतम् ॥
- गरुड पुराण
- Garuda Purana
मय्येव जीर्णतां यातु यत्त्वयोपकृतं मम ।
नरः प्रत्युपकारार्थी विपत्तिमनुकांक्षति ॥
- सुभाषितसुधानिधि
- Subhashitasudhanidhi
मनःप्रीतिकरः स्वर्गः नरकस्तिद्विपर्यायः ।
नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम ॥
- विष्णुपुराण
- Vishnu Purana
मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम् ।
प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित् ॥
- भागवत
- Bhagavata
ब्राह्मे मुहूर्ते चोत्थाय चिन्तयेदात्मनो हितं ।
धर्मार्थकामान् स्वे काले यथाशक्ति न हापयेत् ॥
- याज्ञवल्क्य
- Yajnavalkya
बालो वा यदि वा वृद्धो युवा वा गृहमागतः ।
तस्य पूजा विधातव्या सर्वत्राभ्यागतो गुरुः ॥
- हितोपदेश, मित्रलाभ
- Hitopadesha, Mitralabha
भानुः सकृद्युक्ततुरंग एव
रात्रिं दिवं गन्धवहः प्रयाति ।
शेषः सदैवाहितभूमिभारः
षष्ठांशवृत्तेरपि धर्म एषः ॥
- अभिज्ञान शाकुन्तला
- Abhijnana Shakuntala
भवन्ति नरकाः पापात् पापं दारिद्र्यसंभवम् ।
दारिद्र्यमप्रदानेन तस्माद्दानपरो भवेत् ॥
- कुवलयानन्द
- Kuvalayananda
फलमूलाशनैर्मेध्यैः मुन्यन्नानां च भोजनैः ।
न तत्फलमवाप्नोति यन्मांसपरिवर्जनात् ॥
- मनुस्मृति
- Manu Smriti
पूर्वे वयसि तत् कुर्यात् येन वृद्धः सुखं वसेत् ।
यावज्जीवेन तत् कुर्यात् येन प्रेत्य सुखं वसेत् ॥
- महाभारत, उद्योग
- Mahabharata, Udyoga
पुण्येन कायः सुखितः पाण्डित्येन मनःसुखं ।
तिष्ठन् परार्थं संसारे कृपालुः केन खिद्यन्ते ॥
- बोधिचर्यावतार
- Bodhicharyavatara
पिता माता भ्राता प्रियसहचरी सूनुनिवहः
सुहृत् स्वामी माद्यत्करिभटरथाश्वः परिकरः ।
निमज्जंतं जंतुं नरककुहरे रक्षितुमलं
गुरोर्धर्माधर्मप्रकटनपरात् कोऽपि न परः ॥
- सूक्तिमुत्कावली
- Suktimutkavali
प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा ।
आत्मौपम्येन भूतेषु दयां कुर्वन्ति साधवः ॥
- हितोपदेश, मित्रलाभ
- Hitopadesha, Mitralabha
पादोऽधर्मस्य कर्तारं पादः साक्षिणमृच्छति ।
पादः सभासदः सर्वान् पादो राजानमृच्छति ॥
- मनुस्मृति
- Manu Smriti
परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् ।
धर्मे स्वीयमनुष्ठानं कस्यचित्तु महात्मनः ॥
- समयोचितपद्यमालिका
- Samayochitapadyamalika
परस्मिन् बंधुवर्गे वा मित्रे द्वेष्ये रिपौ तथा ।
आत्मवद्वर्तितव्यं हि दयैषा परिकीर्तिता ॥
- अत्रिसंहिता
- Atri samhita
प्रजा संरक्षणं धर्मो धार्मिकस्य महीभृतः ।
तस्मादसाधून् धर्माय निघ्नन् दोषैर्न लिप्यते ॥
- कौटिल्य
- Kautilya
निदानज्ञस्य भिषजो रुग्णहिंसां प्रयुंजतः ।
न किंचदपि नैर्घृण्यं घृणैवात्र प्रयोजिका ॥
- शिवपुराण
- Shivapurana
न हीदृशं संवननं त्रिषु लोकेषु विद्यते ।
दया मैत्री च भूतेषु दानं च मधुरा च वाक् ॥
- महाभारत - आदि - दया मैत्री दान
- Mahabharata, Adi
न हायनैर्नपलितैः न वित्तेन न बंधुभिः ।
ॠषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥
- मनुस्मृति
- Manu Smriti
नास्ति सत्यात् परो धर्मः संतुष्टिर्नात्मजात् परा ।
नान्नदानात् परं दानं वन्दनान्नोपचारकम् ॥
- प्रयोगरत्नमाला
- Prayogaratnamala
नाश्रमः कारणं धर्मे क्रियमाणो भवेद्धि सः ।
अतो यदात्मनोऽपथ्यं परेषां न तदाचरेत् ॥
- याज्ञवल्क्य
- Yajnavalkya
नामुत्र हि सहायार्थं पिता माता च तिष्ठतः ।
न पुत्रदारा न ज्ञातिः धर्मस्तिष्ठति केवलः ॥
- मनुस्मृति
- Manu Smriti
नापेक्षा न च दाक्षिण्यं न प्रीतिर्नच सङ्गतिः ।
तथाऽपि हरते तापं लोकानमुन्नतो घनः ॥
- भामिनीविलास
- Bhaminivilasa
नाधर्मश्चरितो राजन् सद्यः फलति गौरिव ।
शनैरावर्त्यमानो हि कर्तुर्मूलानि कृतन्ति ॥
- महाभारत, आदि
- Mahabharata, Adi Parva
नाकृत्वा प्राणिनां हिंसां मांसमुत्पाद्यते क्वचित् ।
न च प्राणिवधः स्वर्ग्यः तस्मान्मांसं विवर्जयेत् ॥
- मनुस्मृति
- Manu Smriti
न हि धर्मार्थसिद्ध्यर्थं पानमेवं प्रशस्यते ।
पानादर्थश्च धर्मश्च कामश्च परिहीयते ॥
- रामायण, किष्किन्धा
- Ramayana, Kishkindha
न सा सभा यत्र न सन्ति वृद्धा
न ते वृद्धा ये न वदन्ति धर्मम् ।
नासौ धर्मो यत्र न सत्यमस्ति
न तत् सत्यं यत्छलेनाभ्युपेतम् ॥
- महाभारत, उद्योग
- Mahabharata, Udyoga
न संशयं प्रपद्येत नाकस्मादप्रियं वदेत् ।
नाहितं नानृतं चैव न स्तेनः स्यान्न वार्धुषी ॥
- याज्ञवल्क्य
- Yajnavalkya
न विद्यया केवलया तपसा वाऽपि पात्रता ।
यत्र वृत्तमिमे चोभे तद्दि पात्रं प्रकीर्तितम् ॥
- याज्ञवल्क्य
- Yajnavalkya
न नर्मयुक्तं वचनं हिनस्ति
न स्त्रीषु राजन् न विवाहकाले ।
प्राणात्यये सर्वधनापहारे
पंचानृतान्याहुरपातकानि ॥
- महाभारत, आदि
- Mahabharata, Adi, Lie
न तथ्यवचनं सत्यं नातथ्यवचनं मृषा ।
यद्भूतहितमत्यन्तं तत्सत्यमितरन्मृषा ॥
- सुभाषितसुधानिधि
- Subhashitasudhanidhi
न तत् समाचरेद्धीरो यत् परोऽस्य विगर्हयेत् ।
यथात्मनस्तथान्येषां दारा रक्ष्या विपश्चिता ॥
- रामायण, अरण्य
- Ramayana, Aranya
न त्यजेद्धर्ममर्यादामपि क्लेशदशां श्रितः ।
हरिश्चंद्र हि धर्मार्थी सेहे चाण्डालदासताम् ॥
- चारुचार्य
- Charucharya
न तथा रत्नमासाद्य सुजनः परितुष्यति ।
यथा तत् तद्गताकांक्षे पात्रे दत्वा प्रहृष्यति ॥
- अविमारक
- Avimaraka
न जातु कामान्न भयान्न लोभात्
धर्मं जह्याज्जीवितस्यापि हेतोः ।
नित्यो धर्मः सुखदुःखे त्वनित्ये
जीवो नित्यो हेतुरस्य त्वनित्यः ॥
- महाभारत, उद्योग
- Mahabharata, Udyoga
न चागमादृते धर्मस्तर्केण व्यवतिष्ठते ।
ऋषीणामपि यज्ज्ञानं तदप्यागमपूर्वकम् ॥
- वाक्यपदीय
- Vakyapadiya
न गोप्रदानं न महीप्रदानं
न चान्नदानं न तथात्मदानम् ।
यथा वदन्तीह महाप्रदानं
सर्वप्रदानेष्वभयप्रदानम् ॥
- हितोपदेश, सन्धि
- Hitopadesha, Sandhi
न कामयेऽहं गतिमीश्वरात् परा-
मष्टर्द्धियुक्तामपुनर्भवं वा ।
आर्तिं प्रपद्येऽखिलदुःखभाजा-
मन्तः स्थितो येन भवन्त्यदुःखाः ॥
- भागवत
- Bhagavata
धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥
- मनुस्मृति
- Manu Smriti
धारणाद्धर्म इत्याहुर्धर्मो धारयते प्रजाः ।
यत् स्याद्धारणसंयुक्तं स धर्म इति निश्चयः ॥
- महाभारत, कर्णपर्व
- Mahabharatha, Karnaparva
धर्मो हि यत्नैः पुरुषेण साध्यः
भुजङ्गजिह्वचपला नृपुश्रियः ।
तस्मात्प्रजापालनमात्रबुद्ध्या
हतेषु देहेषु गुणा धरन्ते ॥
- कर्णभार
- Karnabhara
धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम् ।
धर्मसंश्रितमेतच्च पितुर्वचनमुत्तमम् ॥
- रामायण, अयोध्या
- Ramayana, Ayodhya
धर्मार्थकाममोक्षाख्यं य इच्छेच्छेय आत्मनः ।
एकमेव हरेस्तत्र कारणं पादसेवनम् ॥
- भागवत
- Bhagavata
धर्मादर्थः प्रभवते धर्मात् प्रभवते सुखम् ।
धर्मेण लभते सर्वं धर्मसारमिदं जगत् ॥
- रामायण, अयोध्या
- Ramayana, Ayodhya
धर्मः श्रुतो वा दृष्टो वा स्मृतो वा कथितोऽपि वा ।
संमोदितो वा राजेन्द्र पुनाति पुरुषं सदा ॥
- सुभाषितसुधानिधि
- Subhashitasudhanidhi
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।
तस्माद्धर्मो न हन्तव्यः मानो धर्मो हतोवाधीत् ॥
- मनुस्मृति
- Manu Smriti
धनेन किं यो न ददाति नाश्नुते
बलेन किं येन रिपुं न भाधते ।
श्रुतेन किं येन न धर्ममाचरेत्
किमात्मना यो न जितेन्द्रियो भवेत् ॥
- हितोपदेश, सुहृत्भेद
- Hitopadesha, Suhrudbheda
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् ।
सन्निमित्तं वरं त्यागो विनाशे नियते सति ॥
- हितोपदेश, मित्रलाभ
- Hitopadesha, Mitralabha
द्वेष्योऽपि संमतः शिष्टः तस्यार्तस्य यथौषधम् ।
त्याज्यो दुष्टः प्रियोऽप्यासीत् अंगलीवोरगक्षता ॥
- रघुवंश
- Raghuvamsha
देशः कालः पात्रं वितरति वित्तस्य कमपि महिमानं ।
अब्धितले शुक्तिपुटे स्नातं घनतोयमेति मणिभावम् ॥
- सुभाषितसुधानिधि
- Subhashitasudhanidhi
देशभङ्गे प्रवासे वा व्याधिषु व्यसनेष्वपि ।
रक्षेदेव स्वदेहादि पश्चाद्धर्मं समाचरेत् ॥
- पराशरस्मृति
- Parashara Smriti
दृष्टिपूतं न्यसेत्पादं पस्त्रपूतं जलं पिबेत् ।
सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ॥
- मनुस्मृति
- Manu Smriti
दारिद्र्येण कुलं मदेन कुशलं द्वेषेण विद्याफलं
शीलं दुर्जनसंगेमेन मलिनाचारेण शुक्लं यशः ।
आलस्येन धनं प्रयाति निधनं लौल्येन मानोन्नतिः
याज्ञादैन्यपरिग्रहेण च गुणग्रामः समग्रो नृणाम् ॥
- चतुर्वर्गसंग्रह
- Chaturvargasanraha
दानेन तुल्यो निधिरस्ति नान्यो
लोभाश्च नान्योऽस्ति रिपुः पृथिव्याम् ।
विभूषणं शीलसमं न चान्यत्
संतोषतुल्यं धनमस्ति नान्यत् ॥
- पञ्चतंत्र, मित्रसंप्राप्ति
- Panchatantra, Mitrasamprapti
दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुंक्ते तस्य तृतीया गतिर्भवति ॥
- पञ्चतंत्र - मित्रसंप्राप्ति
- Panchatantra, Mitrasamprapti
दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शौर्यम् ।
त्यागसहितं च वित्तं दुर्लभमेतच्चतुष्टयं लोके ॥
- हितोपदेश, मित्रलाभ
- Hitopadesha, Mitralabha
दानं वित्तादृतं वाचः कीर्तिधर्मौ तथायुषः ।
परोपकरणं कायादसारात्सारमुद्धरेत् ॥
- सुभाषितसुधानिधि
- Subhashitasudhanidhi
दातृत्वमेव सर्वेभ्यो गुणेभ्यो भासतेतराम् ।
ज्ञातृत्वसहितं तेच्चेत्सुवर्णस्येव सौरभम् ॥
- सुभाषितसुधानिधि
- Subhashitasudhanidhi
दातुः प्रतिग्रहीतुश्च यौ हस्तावुत्तराधरौ ।
तयोरप्यौत्तराधर्यं ताभ्यामेवोपपाद्यते ॥
- सभारंजनशतक
- Sabharanjanashataka
दाता लघुरपि सेव्यो भवति न कृपणो महानपि समृद्ध्या ।
कूपोऽतः स्वादुजलः प्रीत्यै लोकस्य न समुद्रः ॥
- पञ्चतंत्र, मित्रसंप्राप्ति
- Panchatantra, Mitrasamprapti
दातव्यं भोक्तव्यं धनविषये संचयो न कर्तव्यः ।
पश्येह मधुकरीणां संचितमर्थं हरन्त्यन्ये ॥
- पञ्चतंत्र, मित्रसंप्राप्ति
- Panchatantra, Mitrasamprapti
दश धर्मं न जानंति धृतराष्ट्र निबोध तान् ।
मत्तः प्रमत्तः उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ॥
त्वरमाणश्च लुब्धश्च भीतः कामी च ते दश ।
तस्मादेतेषु सर्वेषु न प्रसज्जेत पण्डितः ॥
- महाभारत, उद्योग
- Mahabharata, Udyoga
दण्डः शास्ति प्रजाः सर्वाः दण्ड एवाभिरक्षति ।
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥
- मनुस्मृति
- Manu Smriti
त्रिभिर्वर्षैस्त्रिभिर्मासैस्त्रिभिः पक्षैस्त्रिभिर्दिनैः ।
अत्युत्कटैः पुण्यपापैरिहैव फलमश्नुते ॥
- समयोचितपद्यमालिका
- Samayochitapadyamalika
तावत्प्रीतिर्भवेल्लोके यावद्दानं प्रदीयते ।
वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरं ॥
- पञ्चतंत्र, मित्रसंप्राप्ति
- Panchatantra, Mitrasamprapti
त्यागो गुणो वित्तवतां वितं त्यागवतां गुणः ।
परस्पर वियुक्तौतु वित्तत्यागौ विडंबना ॥
- सुभाषितसुधानिधि
- Subhashitasudhanidhi
तस्मादेताः सदा पूज्याः भूषणाच्छादनाशनैः ।
भूतिकामैर्नरैर्नित्यं सत्कारेषूत्सवेषु च ॥
- मनु स्मृति
- Manu Smriti
तस्माद्धर्मं सहायार्थं नित्यं संचिनुयाच्छनैः ।
धर्मेण हि सहायेन तमस्तरति दुस्तरम् ॥
- मनुस्मृति
- Manu Smriti
तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते ।
द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे ॥
- सुभाषितसुधानिधि
- Subhashitasudhanidhi
तपः शौचं दया सत्यं इति पादाः कृते कृताः ।
अधर्मांशैस्त्रयो भग्नाः स्मयसंगमदैस्तव ॥
- भागवत
- Bhagavata
ज्ञात्वाऽपराधं देशं च कालं बलमथापि वा ।
वयः कर्म च वित्तं च दण्डं दण्ड्येषु पातयेत् ॥
- याज्ञवल्क्य
- Yajnavalkya
जलबिंदुनिपातेन क्रमशः पूर्यते घटः ।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥
- हितोपदेश, सुहृद्भेद
- Hitopadesha, Suhrudbhedha
चातकस्त्रिचतुरान् पयःकणान्
याचते जलधरं पिपासया ।
सोऽपि पूरयति विश्वमंभसा
हन्त हन्त महतामुदारता ॥
- कुवलयानन्द
- Kuvalayananda
चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः ।
स्नातकस्य च राज्ञश्च पंथा देयो वरस्य च ॥
- मनुस्मृति
- Manu Smriti
को धर्मो भूतदया किं सौख्यमरोगिता जगति जन्तोः ।
कः स्नेहः सद्भावः किं पाण्डित्यं परिच्छेदः ॥
- हितोपदेश, मित्रलाभ
- Hitopadesha, Mitralabha