कर्मणा मनसा वाचा परपीडां करोति यः ।
तद्बीजं जन्म फलति प्रभूतं तस्य समाचरेत् ॥
- विष्णुपुराण
If a person hurts others through his action, words or thought then its consequences will make him suffer in the subsequent lives.
- Vishnupurana
कः पथ्यतरो धर्मः कः शुचिरिह यस्य मानसं शुद्धम् ।
कः पंडितो विवेकी किं विषमवधीरणा गुरुषु ॥
- प्रश्नोत्तर रत्नमालिका
- Prashnottara Ratnamalika
कर्तव्यो भ्रातृषु स्नेहो विस्मर्तव्याः गुणेतराः ।
संबंधो बंधुभिः श्रेयान् लोकयोरुभयोरपि ॥
- दूतवाक्य
- Dutavakya
एतावानव्ययो धर्मः पुण्यश्लोकैरुपासितः ।
यो भूतशोकहर्षाभ्यां आत्मा शोचति हर्षति च ॥
- भागवत
- Bhagavata
एकः प्रजायते जन्तुरेक एव प्रलीयते ।
एकोऽनुभुन्क्ते सुकृतं एक एव च दुष्कृतम् ॥
- मनुस्मृति
- Manu Smriti