कृत्वा पापं हि सन्तप्य तस्मात्पात्प्रमुच्यते ।
नैवं कुर्यां पुनरिति निवृत्त्या पूयते तु सः
- मनुस्मृति
A sinner will get his redemption from the sin and becomes pure if he truly feels remorse for his act and wows not to repeat it ever.
- Manu Smriti
किं दातुरखिलैर्दोषैः किं लुब्धस्याखिलैर्गुणैः ।
न लोभादधिको दोषो न दानाधिको गुणः ॥
- सभारंजनशतक
- Sabharanjana Shataka
कः पथ्यतरो धर्मः कः शुचिरिह यस्य मानसं शुद्धम् ।
कः पंडितो विवेकी किं विषमवधीरणा गुरुषु ॥
- प्रश्नोत्तर रत्नमालिका
- Prashnottara Ratnamalika
कर्तव्यो भ्रातृषु स्नेहो विस्मर्तव्याः गुणेतराः ।
संबंधो बंधुभिः श्रेयान् लोकयोरुभयोरपि ॥
- दूतवाक्य
- Dutavakya