मानाद्वा यदि वा लोभात् क्रोधाद्वा यदि वा भयात् ।
यो न्यायमन्यथा ब्रूते स याति नरकं नरः ॥
- पञ्चतंत्र, काकोलूकीय
If a person (judge) gives bad judgment due to prejudice, greed or fear he will go to hell.
- Panchatantra, Kakolukiya, Justice
मानाद्वा यदि वा लोभात् क्रोधाद्वा यदि वा भयात् ।
यो न्यायमन्यथा ब्रूते स याति नरकं नरः ॥
- पञ्चतंत्र, काकोलूकीय
- Panchatantra, Kakolukiya, Justice
मातृवत्परदारेषु परद्रव्येषु लोष्ठवत् ।
आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः ॥
- हितोपदेश, सन्धि
- Hitopadesha, Sandhi
माता शत्रुः पिता वैरी बालो येन न पाठितः ।
न शोभते सभा मध्ये हंसमध्ये बको यथा ॥
- हितोपदेश
- Hitopadesha
महतां योऽपराध्येते दूरस्थोऽस्मीति नाश्वसेत् ।
दीर्घौ बुद्धिमतो बाहू ताभ्यां हिंसति हिंसकम् ॥
- पञ्चतंत्र, मित्रभेद
- Panchatantra, Mitrabheda
भारोऽविवेकिनः शास्त्रं भारो ज्ञानं च रागिणः ।
अशान्तस्य मनो भारः भारोऽनात्मविदो वपुः ॥
- योगवासिष्ठ, वैराग्य
- Yogavasishta, Vairagya
भाग्योदयेन बहुजन्मसमार्जितेन
सत्संगमं च लभते पुरुषो यदा वै ।
अज्ञानहेतुकृतमोहमदांधकार
नाशं विधाय हि तदोदयते विवेकः ॥
- भागवतमाहात्म
- Bhagavatamahatma
भये वा यदि वा हर्षे संप्राप्ते यो विमर्शयेत् ।
कृत्यं न कुरुते वेगान्न स संतापमाप्नुयात् ॥
- सुभाषितरत्नभाण्डागार
- Subhashitaratnabhandagara